अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या
A 13-digit ISBN, 978-3-16-148410-0, as represented by an EAN-13 bar code | |
Acronym | ISBN |
---|---|
Introduced | 1970 |
Managing organisation | International ISBN Agency |
Number of digits | 13 (formerly 10) |
Check digit | Weighted sum |
Example | 978-3-16-148410-0 |
Website | www.isbn-international.org |
ऐ एस् बि एन् अथवा अन्ताराष्ट्रिय-मानक-पुस्तक-संख्या इत्येषा संख्या पुस्तकानां कृते दीयमाना विशिष्टा वाणिज्यिकान्वेषकपुस्तकसंख्या ।
इयं संख्या पुस्तकस्य प्रतिमुद्रणाय विभिन्नरूपमुद्रणाय च दीयते । तन्नाम समानपुस्तकस्य विद्युन्मानावृत्तिः, कागदावरणावृत्तिः, कठिनावरणावृत्तिः च विभिन्नाः संख्याः प्राप्नुवन्ति । २००७ तमस्य वर्षस्य जनवरीमासस्य प्रथमदिनाङ्कस्य अनन्तरं प्रदत्तासु अन्ताराष्ट्रियमानकपुस्तकसंख्यासु १३ अङ्काः विद्यन्ते । ततः पूर्वं प्रदत्तानां १० अङ्काः भवन्ति । अस्याः संख्यायाः प्रदानविधिः तत्तद्देशस्य मुद्रणोद्यमस्य विस्तारम् अनुसृत्य भवति ।
अन्ताराष्ट्रियमानकपुस्तकसंख्यायाः प्रदानस्य प्राथमिकी प्रक्रिया १९६७ तमे वर्षे आरब्धा । १९६६ तमे निर्मितां ९ अङ्कयुक्तां मानकपुस्तकसंख्याम् अनुसृत्य ऐ एस् बि एन् संख्या दीयते स्म । १० अङ्कयुक्तायाः मानकसंख्यायाः प्रारूपम् अन्ताराष्ट्रियप्रमाणीकरणसंस्थया (International Organization for Standardization (ISO) निर्मितम् । अस्याः प्रस्तुतिः १९७० तमे वर्षे अन्ताराष्ट्रियप्रमाणम् ऐ एस् ओ २१०८ इति नाम्ना जाता । (मानकपुस्तकसंख्यायाः पुरतः शून्यसय संयोजनेन अन्ताराष्ट्रियमानकपुस्तकसंख्या प्राप्तुं शक्या । )
बाह्यसम्पर्काः
[सम्पादयतु]- ISO 2108:2005 at www.iso.org
- "Are You Ready for ISBN-13?". R.R. Bowker LLC.
- International ISBN Agency—coordinates and supervises the worldwide use of the ISBN system.
- Numerical List of Group Identifiers List of language/region prefixes
- Free conversion tool: ISBN-10 to ISBN-13 & ISBN-13 to ISBN-10 from the ISBN agency. Also shows correct hyphenation & verifies if ISBNs are valid or not.
- RFC 3187 Using International Standard Book Numbers as Uniform Resource Names (URN)
- Implementation guidelinesPDF (51.0 KB) for the 13-digit ISBN code.